श्रीमद्भगवद्गीता गीता महात्म्य

गीता महात्म्यसम्पादन

गीता पाठ सुरु गर्दा र समाप्त गर्दा निम्नििखत महात्म्य पाठ गर्नु राम्रो मानिन्छ ।
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम्,
अद्वैतामृतवर्षिणीं भगवतीमष्टाध्यायिनी
मम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषीणिम् ।।१।।
नमोऽस्तुते व्यास विशालबुद्धे फुल्लार विन्दायत पत्र नेत्र।
येन त्वया भारततैलपूर्णः प्रज्वालितोज्ञानमयः प्रदीपः।।२।।
प्रपन्नपारिजाताय तोत्त्रवेत्त्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः।।३ ।।
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ।।४।
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम्।।५।।
भीष्मद्रोणतटा जयद्रथ जला गान्धार नीलोत्पला।
शल्य ग्राहवती कृपेण वहनी कर्णेन वेलाकुला ।।
अश्वत्थामविकर्ण घोर मकरा दुर्योधनावर्तिनी ।
सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः ।।६।।
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटम्।
नानाख्यानककेसरं हरिकथा सम्बोधनाबोधितम्।
लोके सज्जन षट्पदैरहरह पेपीयमानं मुदा,
भूयाद्भारतपङ्कजं कलिमल प्रध्वंसि नः श्रेयसे ।। ७ ।।
मूकं करोति वाचालं, पङ्गुं लंघयते गिरिम् ।
यत्कृपा तमहं वन्दे, परमानन्द माधवम् ।।८।।
एकं शास्त्रं देवकीपुत्र गीत–
मेको देवो देवकी पुत्र एव ।
एकोमन्त्रस्तस्यनामानि यानि
कर्माप्यैकं तस्य देवस्यसेवा।।९।।
यं ब्रह्मावरुणेन्द्र रुद्रमरुतः
स्तुन्वन्तु दिव्यैस्तवै ,
वेदैसाङ्गपद क्रमोपनिषदैः
गायन्ति यमसामगाः ।
ध्यानावस्थित तद्गतेन मनसा
पश्यन्ति यं योगिनो,
यस्यान्तं न विदुः सुरासुरगणा
देवाय तस्मै नमः ।।१०।।