मध्य चरित: संशोधनहरू बीचको भिन्नता

अथ मध्यमचरितम् .. महालक्ष्मीध्यानम् ॐ अक्षस्रक्प... को साथमा पृष्ठ शृजना भयो

कुनै सम्पादन सारांश छैन
पङ्क्ति १:
अथ मध्यमचरितम् ..

महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् .

शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ..

ॐ ऋषिरुवाच .. १..

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा .

महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २..

तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् .

जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३..

ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् .

पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४..

यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् .

त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५..

सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च .

अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६..

स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि .

विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७..

एतद्वः कथितं सर्वममरारिविचेष्टितम् .

शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८..

इत्थं निशम्य देवानां वचांसि मधुसूदनः .
चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९..

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः .
निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०..

अन्येषां चैव देवानां शक्रादीनां शरीरतः .

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११..

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् .

ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२..

अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् .

एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३..

यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् .

याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४..

सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् .

वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५..

ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा .

वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६..

तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा .

नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७..

भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च .

अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८..

ततः समस्तदेवानां तेजोराशिसमुद्भवाम् .

तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९..

शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् .

चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०..

शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः .

मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१..

वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः .

ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२..

कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ .

प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३..

समस्तरोमकूपेषु निजरश्मीन् दिवाकरः .

कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४..

क्षीरोदश्चामलं हारमजरे च तथाम्बरे .

चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५..

अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु .

नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६..

अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च .

विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७..

अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् .

अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८..

अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् .

हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९..

ददावशून्यं सुरया पानपात्रं धनाधिपः .

शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०..

नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् .

अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१..

सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः .

तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२..

अमायतातिमहता प्रतिशब्दो महानभूत् .

चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३..

चचाल वसुधा चेलुः सकलाश्च महीधराः .

जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४..

तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः .

दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५..

सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः .

आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६..

अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः .

स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७..

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम्

क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८..

दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् .

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९..

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् .

महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०..

युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः .

रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१..

अयुध्यतायुतानां च सहस्रेण महाहनुः .

पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२..

अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे .

गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३..

वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत .

बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४..

युयुधे संयुगे तत्र रथानां परिवारितः .

अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५..

युयुधुः संयुगे देव्या सह तत्र महासुराः .

कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६..

हयानां च वृतो युद्धे तत्राभून्महिषासुरः .

तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७..

युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः .

केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८..

देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः .

सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९..

लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी .

अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०..

मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी .

सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१..

चचारासुरसैन्येषु वनेष्विव हुताशनः .

निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२..

त एव सद्यस्सम्भूता गणाः शतसहस्रशः .

युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३..

नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः .

अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४..

मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे .

ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५..

खड्गादिभिश्च शतशो निजघान महासुरान् .

पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६..

असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् .

केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७..

विपोथिता निपातेन गदया भुवि शेरते .

वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८..

केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि .

निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९..

शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः .

केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०..

शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः .

विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१..

एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः .

छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२..

कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः .

ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३..

कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः .

तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४..

पातितै रथनागाश्वैरसुरैश्च वसुन्धरा .

अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५..

शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः .

मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६..

क्षणेन तन्महासैन्यमसुराणां तथाम्बिका .

निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७..

स च सिंहो महानादमुत्सृजन् धुतकेसरः .

शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८..

देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः .

यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. ..

अथ तृतीयोऽध्यायः ..

ऋषिरुवाच .. १..

निहन्यमानं तत्सैन्यमवलोक्य महासुरः .

सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २..

स देवीं शरवर्षेण ववर्ष समरेऽसुरः .

यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३..

तस्य छित्वा ततो देवी लीलयैव शरोत्करान् .

जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४..

चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् .

विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५..

स छिन्नधन्वा विरथो हताश्वो हतसारथिः .

अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६..

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि .

आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७..

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन .

ततो जग्राह शूलं स कोपादरुणलोचनः .. ८..

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः .

जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९..

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत .

तच्छूलं शतधा तेन नीतं स च महासुरः .. १०..

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ .

आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११..

सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् .

हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२..

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः .

चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३..

ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः .

बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४..

युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ .

युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५..

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा .

करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६..

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः .

दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७..

देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् .

बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८..

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् .

त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९..

बिडालस्यासिना कायात् पातयामास वै शिरः .

दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०..

एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः .

माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१..

कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् .

लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२..

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च .

निःश्वासपवनेनान्यान्पातयामास भूतले .. २३..

निपात्य प्रमथानीकमभ्यधावत सोऽसुरः .

सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४..

सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः .

श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५..

वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत .

लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६..

धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः .

श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७..

इति क्रोधसमाध्मातमापतन्तं महासुरम् .

दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८..

सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् .

तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९..

ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः .

छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०..

तत एवाशु पुरुषं देवी चिच्छेद सायकैः .

तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१..

करेण च महासिंहं तं चकर्ष जगर्ज च .

कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२..

ततो महासुरो भूयो माहिषं वपुरास्थितः .

तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३..

ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् .

पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४..

ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः .

विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५..

सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः .

उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६..

देव्युवाच .. ३७..

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् .

मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८..

ऋषिरुवाच .. ३९..

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् .

पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्.. ४०..

ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः .

.. ४०..
अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः .. ४१..

ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः .
अर्धनिष्क्रान्त एवासीद्देव्याएवासौ वीर्येणयुध्यमानो संवृतःमहासुरः .. ४१..

तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२..

अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः .
ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् .

तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२..
प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३..

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् .
तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः .

प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३..
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..

तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः .
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. ..

जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. ..

अथ चतुर्थोऽध्यायः ..

ऋषिरुवाच .. १..

शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या .

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..

देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् .

तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..

यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च .

सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४..

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः .

श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५..

किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि .

किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६..

हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा .

सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..

यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि .

स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..

या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .

मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि .. ९..

शब्दात्मिका सुविमलग्यर्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् .

देवी त्रयी भगवती भवभावनाय वातार् च सर्वजगतां परमातिर्हन्त्री .. १०..

मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा .

श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..

ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .

अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२..

दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .

प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..

देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि .

विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..

ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः .

धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५..

धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति .

स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि .

दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७..

एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् .

संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८..

दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .

लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..

खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .

यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् .. २०..

दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः .

वीर्यं च हन्त्रु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..

केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र .

चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..

त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा .

नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते .. २३..

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके .

घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४..

प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .

भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५..

सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .

यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..

खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .

करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..

ऋषिरुवाच .. २८..

एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .

अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..

भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता .

प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

देव्युवाच .. ३१..

व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२..

ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता . देवा उचुः .. ३३..

भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते .

यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४..

यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि .

संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..

यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .

तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६..

वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..

ऋषिरुवाच .. ३८..

इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः .

तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..

इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .

देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..

पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् .

वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..

रक्षणाय च लोकानां देवानामुपकारिणी .

तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ..

==हेर्नुहोस्==
"https://ne.wikibooks.org/wiki/मध्य_चरित" बाट अनुप्रेषित