मध्य चरित: संशोधनहरू बीचको भिन्नता

Content deleted Content added
अथ मध्यमचरितम् .. महालक्ष्मीध्यानम् ॐ अक्षस्रक्प... को साथमा पृष्ठ शृजना भयो
(कुनै भिन्नता छैन)

०७:५७, ७ जुलाई २०१० जस्तै गरी पुनरावलोकन

अथ मध्यमचरितम् ..

महालक्ष्मीध्यानम् ॐ अक्षस्रक्परशुं गदेषुकुलिशं पद्मं धनुः कुण्डिकां दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुराभाजनम् . शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ..

ॐ ऋषिरुवाच .. १..

देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा . 

महिषेऽसुराणामधिपे देवानां च पुरन्दरे .. २.. तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् . जित्वा च सकलान् देवानिन्द्रोऽभून्महिषासुरः .. ३.. ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् . पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ .. ४.. यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् . त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् .. ५.. सूर्येन्द्राग्न्यनिलेन्दूनां यमस्य वरुणस्य च . अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति .. ६.. स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि . विचरन्ति यथा मर्त्या महिषेण दुरात्मना .. ७.. एतद्वः कथितं सर्वममरारिविचेष्टितम् . शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् .. ८.. इत्थं निशम्य देवानां वचांसि मधुसूदनः .

चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ .. ९.. 

ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः . निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च .. १०.. अन्येषां चैव देवानां शक्रादीनां शरीरतः .

निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत .. ११.. 

अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् . ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् .. १२.. अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् . एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा .. १३.. यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् . याम्येन चाभवन् केशा बाहवो विष्णुतेजसा .. १४.. सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् . वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः .. १५.. ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा . वसूनां च कराङ्गुल्यः कौबेरेण च नासिका .. १६.. तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा . नयनत्रितयं जज्ञे तथा पावकतेजसा .. १७.. भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च . अन्येषां चैव देवानां सम्भवस्तेजसां शिवा .. १८.. ततः समस्तदेवानां तेजोराशिसमुद्भवाम् . तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः .. १९.. शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् . चक्रं च दत्तवान् कृष्णः समुत्पाट्य स्वचक्रतः .. २०.. शङ्खं च वरुणः शक्तिं ददौ तस्यै हुताशनः . मारुतो दत्तवांश्चापं बाणपूर्णे ततेषुधी .. २१.. वज्रमिन्द्रः समुत्पाट्य कुलिशादमराधिपः . ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् .. २२.. कालदण्डाद्यमो दण्डं पाशं चाम्बुपतिर्ददौ . प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् .. २३.. समस्तरोमकूपेषु निजरश्मीन् दिवाकरः . कालश्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् .. २४.. क्षीरोदश्चामलं हारमजरे च तथाम्बरे . चूडामणिं तथा दिव्यं कुण्डले कटकानि च .. २५.. अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु . नूपुरौ विमलौ तद्वद् ग्रैवेयकमनुत्तमम् .. २६.. अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च . विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् .. २७.. अस्त्राण्यनेकरूपाणि तथाऽभेद्यं च दंशनम् . अम्लानपङ्कजां मालां शिरस्युरसि चापराम् .. २८.. अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् . हिमवान् वाहनं सिंहं रत्नानि विविधानि च .. २९.. ददावशून्यं सुरया पानपात्रं धनाधिपः . शेषश्च सर्वनागेशो महामणिविभूषितम् .. ३०.. नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् . अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा .. ३१.. सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः . तस्या नादेन घोरेण कृत्स्नमापूरितं नभः .. ३२.. अमायतातिमहता प्रतिशब्दो महानभूत् . चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे .. ३३.. चचाल वसुधा चेलुः सकलाश्च महीधराः . जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् .. ३४.. तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः . दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः .. ३५.. सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः . आः किमेतदिति क्रोधादाभाष्य महिषासुरः .. ३६.. अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः . स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा .. ३७..

पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् क्षोभिताशेषपातालां धनुर्ज्यानिःस्वनेन ताम् .. ३८.. दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् .

ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् .. ३९.. 

शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् . महिषासुरसेनानीश्चिक्षुराख्यो महासुरः .. ४०.. युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः . रथानामयुतैः षड्भिरुदग्राख्यो महासुरः .. ४१.. अयुध्यतायुतानां च सहस्रेण महाहनुः . पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः .. ४२.. अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे . गजवाजिसहस्रौघैरनेकैः परिवारितः .. ४३.. वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत . बिडालाख्योऽयुतानां च पञ्चाशद्भिरथायुतैः .. ४४.. युयुधे संयुगे तत्र रथानां परिवारितः . अन्ये च तत्रायुतशो रथनागहयैर्वृताः .. ४५.. युयुधुः संयुगे देव्या सह तत्र महासुराः . कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा .. ४६.. हयानां च वृतो युद्धे तत्राभून्महिषासुरः . तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा .. ४७.. युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः . केचिच्च चिक्षिपुः शक्तीः केचित् पाशांस्तथापरे .. ४८.. देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः . सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका .. ४९.. लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी . अनायस्तानना देवी स्तूयमाना सुरर्षिभिः .. ५०.. मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी . सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी .. ५१.. चचारासुरसैन्येषु वनेष्विव हुताशनः . निःश्वासान् मुमुचे यांश्च युध्यमाना रणेऽम्बिका .. ५२.. त एव सद्यस्सम्भूता गणाः शतसहस्रशः . युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः .. ५३.. नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः . अवादयन्त पटहान् गणाः शङ्खांस्तथापरे .. ५४.. मृदङ्गाश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे . ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः .. ५५.. खड्गादिभिश्च शतशो निजघान महासुरान् . पातयामास चैवान्यान् घण्टास्वनविमोहितान् .. ५६.. असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् . केचिद् द्विधाकृतास्तीक्ष्णैः खड्गपातैस्तथापरे .. ५७.. विपोथिता निपातेन गदया भुवि शेरते . वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः .. ५८.. केचिन्निपतिता भूमौ भिन्नाः शूलेन वक्षसि . निरन्तराः शरौघेण कृताः केचिद्रणाजिरे .. ५९.. शल्यानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः . केषाञ्चिद्बाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे .. ६०.. शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः . विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः .. ६१.. एकबाह्वक्षिचरणाः केचिद्देव्या द्विधाकृताः . छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः .. ६२.. कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः . ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः .. ६३.. कबन्धाश्छिन्नशिरसः खड्गशक्त्यृष्टिपाणयः . तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः ..६४.. पातितै रथनागाश्वैरसुरैश्च वसुन्धरा . अगम्या साभवत्तत्र यत्राभूत् स महारणः .. ६५.. शोणितौघा महानद्यस्सद्यस्तत्र विसुस्रुवुः . मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् .. ६६.. क्षणेन तन्महासैन्यमसुराणां तथाम्बिका . निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् .. ६७.. स च सिंहो महानादमुत्सृजन् धुतकेसरः . शरीरेभ्योऽमरारीणामसूनिव विचिन्वति .. ६८.. देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः . यथैषां तुष्टुवुर्देवाः पुष्पवृष्टिमुचो दिवि .. ६९.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः .. ..

अथ तृतीयोऽध्यायः ..

ऋषिरुवाच .. १.. निहन्यमानं तत्सैन्यमवलोक्य महासुरः . सेनानीश्चक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् .. २.. स देवीं शरवर्षेण ववर्ष समरेऽसुरः . यथा मेरुगिरेः श्रृङ्गं तोयवर्षेण तोयदः .. ३.. तस्य छित्वा ततो देवी लीलयैव शरोत्करान् . जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् .. ४.. चिछेद च धनुः सद्यो ध्वजं चातिसमुच्छृतम् . विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः .. ५.. स छिन्नधन्वा विरथो हताश्वो हतसारथिः . अभ्यधावत तं देवीं खड्गचर्मधरोऽसुरः .. ६.. सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि . आजघान भुजे सव्ये देवीमप्यतिवेगवान् .. ७.. तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन . ततो जग्राह शूलं स कोपादरुणलोचनः .. ८.. चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः . जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् .. ९.. दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत . तच्छूलं शतधा तेन नीतं स च महासुरः .. १०.. हते तस्मिन्महावीर्ये महिषस्य चमूपतौ . आजगाम गजारूढश्चामरस्त्रिदशार्दनः .. ११.. सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् . हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् .. १२.. भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः . चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् .. १३.. ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः . बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा .. १४.. युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ . युयुधातेऽतिसंरब्धौ प्रहरैरतिदारुणैः .. १५.. ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा . करप्रहारेण शिरश्चामरस्य पृथक् कृतम् .. १६.. उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः . दन्तमुष्टितलैश्चैव करालश्च निपातितः .. १७.. देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् . बाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् .. १८.. उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम् . त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी .. १९.. बिडालस्यासिना कायात् पातयामास वै शिरः . दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् .. २०.. एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः . माहिषेण स्वरूपेण त्रासयामास तान् गणान् .. २१.. कांश्चित्तुण्डाप्रहारेण खुरक्षेपैस्तथापरान् . लाङ्गूलताडितांश्चान्यान् श्रृङ्गाभ्यां च विदारितान् .. २२.. वेगेन कांश्चिदपरान्नादेन भ्रमणेन च . निःश्वासपवनेनान्यान्पातयामास भूतले .. २३.. निपात्य प्रमथानीकमभ्यधावत सोऽसुरः . सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका .. २४.. सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः . श्रृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च .. २५.. वेगभ्रमणविक्षुण्णा मही तस्य विशीर्यत . लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः .. २६.. धुतश्रृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घनाः . श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः .. २७..

इति क्रोधसमाध्मातमापतन्तं महासुरम् . दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् .. २८.. सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् . तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे .. २९.. ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः . छिनत्ति तावत् पुरुषः खड्गपाणिरद्दश्यत .. ३०.. तत एवाशु पुरुषं देवी चिच्छेद सायकैः . तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः .. ३१.. करेण च महासिंहं तं चकर्ष जगर्ज च . कर्षतस्तु करं देवी खड्गेन निरकृन्तत .. ३२.. ततो महासुरो भूयो माहिषं वपुरास्थितः . तथैव क्षोभयामास त्रैलोक्यं सचराचरम् .. ३३.. ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् . पपौ पुनः पुनश्चैव जहासारुणलोचना .. ३४.. ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः . विषाणाभ्यां च चिक्षेप चण्डिकां प्रति भूधरान् .. ३५.. सा च तान्प्रहितांस्तेन चूर्णयन्ती शरोत्करैः . उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् .. ३६..

देव्युवाच .. ३७.. गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् . मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः .. ३८..

ऋषिरुवाच .. ३९.. एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् . पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्

.. ४०.. 

ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः . अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः .. ४१.. अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः . तया महासिना देव्या शिरश्छित्त्वा निपातितः .. ४२.. ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् . प्रहर्षं च परं जग्मुः सकला देवतागणाः .. ४३.. तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः . जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः .. ४४.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः .. .. 

अथ चतुर्थोऽध्यायः ..

ऋषिरुवाच .. १.. शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या .

तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २.. 

देव्या यया ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्त्तिसमूहमूत्यार् . तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः .. ३.. यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च . सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु .. ४.. या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः . श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् .. ५.. किं वर्णयाम तव रूपमचिन्त्यमेतत् किञ्चातिवीर्यमसुरक्षयकारि भूरि . किं चाहवेषु चरितानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु .. ६.. हेतुः समस्तजगतां त्रिगुणापि दोषै- र्न ज्ञायसे हरिहरादिभिरप्यपारा . सर्वाश्रयाखिलमिदं जगदंशभूत- मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७.. यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि . स्वाहासि वै पितृगणस्य च तृप्तिहेतु- रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८.. या मुक्त्तिहेतुरविचिन्त्यमहाव्रता त्वं अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः . मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै- र्विद्यासि सा भगवती परमा हि देवि .. ९.. शब्दात्मिका सुविमलग्यर्जुषां निधान- मुद्गीथरम्यपदपाठवतां च साम्नाम् . देवी त्रयी भगवती भवभावनाय वातार् च सर्वजगतां परमातिर्हन्त्री .. १०.. मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा . श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११.. ईषत्सहासममलं परिपूर्णचन्द्र- बिम्बानुकारि कनकोत्तमकान्तिकान्तम् . अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण .. १२.. दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल- मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः . प्राणान् मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३.. देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि . विज्ञातमेतदधुनैव यदस्तमेत- न्नीतं बलं सुविपुलं महिषासुरस्य .. १४.. ते सम्मता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः . धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना .. १५.. धम्यार्णि देवि सकलानि सदैव कर्मा- ण्यत्यादृतः प्रतिदिनं सुकृती करोति . स्वर्गं प्रयाति च ततो भवती प्रसादा- ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६.. दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि . दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाद्रर्चित्ता .. १७.. एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् . संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान्विनिहंसि देवि .. १८.. दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् . लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९.. खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् . यन्नागता विलयमंशुमदिन्दुखण्ड- योग्याननं तव विलोकयतां तदेतत् .. २०.. दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः . वीर्यं च हन्त्रु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१.. केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र . चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२.. त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा . नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते .. २३.. शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके . घण्टास्वनेन नः पाहि चापज्यानिस्स्वनेन च .. २४.. प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे . भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५.. सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते . यानि चात्यन्तघोराणि तै रक्षास्मांस्तथा भुवम् .. २६.. खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके . करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७.. ऋषिरुवाच .. २८.. एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः . अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९.. भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता . प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..

देव्युवाच .. ३१.. व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् .. ३२.. ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता . देवा उचुः .. ३३.. भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते . यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४.. यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि . संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५.. यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने . तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .. ३६.. वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७.. ऋषिरुवाच .. ३८.. इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः . तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९.. इत्येतत्कथितं भूप सम्भूता सा यथा पुरा . देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०.. पुनश्च गौरीदेहा सा समुद्भूता यथाभवत् . वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१.. रक्षणाय च लोकानां देवानामुपकारिणी . तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते .. ४२.. ..

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ..

हेर्नुहोस्

उत्तम चरित