कीलकस्तोत्रम्

ॐ नमश्चण्डिकायै मार्कण्डेय उवाच

ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे .
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे .. १..

सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् .
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः .. २..

सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि .
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः .. ३..

न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते .
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् .. ४..

समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः .
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् .. ५..

स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः .
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् .. ६..

सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः .
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः .. ७..

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति .
इत्थं रूपेण कीलेन महादेवेन कीलितम् .. ८..

यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः .
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् .. ९..

न चैवापाटवं तस्य भयं क्वापि न जायते .
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् .. १०..

ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति .
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः .. ११..

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने .
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम् .. १२..

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः .
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् .. १३..

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च .
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः .. १४..

चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः .
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् .. १५..

अग्रतोऽमुं महादेवकृतं कीलकवारणम् .
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः .. १६..

इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम्

हेर्नुहोस् सम्पादन गर्नुहोस्

प्रथम चरित